|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.206. अध्यायः 206
Mahabharata - Adi Parva - Chapter Topics
भीमार्जुनाश्यां द्रौपद्याः भिक्षेत्यावेदने कुन्त्या पञ्चानां सह भोजनानुज्ञा॥ 1 ॥ पश्चात् द्रौपदीदर्शनेन चिन्तान्वितायां कुन्त्यां युधिष्ठिरार्जुनयोः संवादः॥ 2 ॥ द्वैपायनवचःस्मरणेन सर्वेषां द्रौपदी भार्येति युधिष्ठिरनिश्चयः॥ 3 ॥ जनमेजयेन कृष्णस्य कार्मुकानारोपणे कारणप्रश्ने पाण्डवार्थमिति वैशम्पायनस्योत्तरम्॥ 4 ॥ कुलालशालांप्रति श्रीकृष्णस्यागमनम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-206-0x(1144)(9111)
गत्वा तु तां भार्गवकर्मशालां
पार्थौ पृथां प्राप्य महानुभावौ।
तां याज्ञसेनीं परमप्रतीतौ
भिक्षेत्यथावेदयतां नराग्र्यौ॥ 1-206-1(9112)
कुटीगता सा त्वनवेक्ष्य पुत्रौ
प्रोवाच भुङ्क्तेति समेत्य सर्वे।
पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां
कष्टं मया भाषितमित्युवाच॥ 1-206-2(9113)
साऽधर्मभीता परिचिन्तयन्ती
तां याज्ञसेनीं परमप्रतीताम्।
पाणौ गृहीत्वोपजगाम कुन्ती
युधिष्ठिरं वाक्यमुवाच चेदम्॥ 1-206-3(9114)
कुन्त्युवाच। 1-206-4x(1145)
इयं तु कन्या द्रुपदस्य राज्ञ-
स्तवानुजाभ्यां मयि संनिसृष्टा।
यथोचितं पुत्र मयाऽपि चोक्तं
समेत्य भुङ्क्तेति नृप प्रमादात्॥ 1-206-4(9115)
मया कथं नानृतमुक्तमद्य
भवेत्कुरूणामृषभ ब्रवीहि।
पञ्चालराजस्य सुतामधर्मो
न चोपवर्तेत न विभ्रमेच्च॥ 1-206-5(9116)
वैशम्पायन उवाच। 1-206-6x(1146)
स एवमुक्तो मतिमान्नृवीरो
मात्रा मुहूर्तं तु विचिन्त्य राजा।
कुन्तीं समाश्वास्य कुरुप्रवीरो
धनञ्जयं वाक्यमिदं बभाषे॥ 1-206-6(9117)
त्वया जिता फाल्गुन याज्ञसेनी
त्वयैव शोभिष्यति राजपुत्री।
प्रज्वाल्यतामग्निरमित्रसाह
गृहाण पाणिं विधिवत्त्वमस्याः॥ 1-206-7(9118)
अर्जुन उवाच। 1-206-8x(1147)
मा मां नरेन्द्र त्वमधर्मभाजं
कृथा न धर्मोऽयमशिष्टदृष्टः।
भवान्निवेश्यः प्रथमं ततोऽयं
भीमो महाबाहुरचिन्त्यकर्मा॥ 1-206-8(9119)
अहं ततो नकुलोऽनन्तरं मे
पश्चादयं सहदेवस्तरस्वी।
वृकोदरोऽहं च यमौ च राज-
न्नियं च कन्या भवतो नियोज्याः॥ 1-206-9(9120)
एवं गते यत्करणीयमत्र
धर्म्यं यशस्यं कुरु तद्विचिन्त्य।
पाञ्चालराजस्य हितं च यत्स्या-
त्प्रशाधि सर्वे स्म वशे स्थितास्ते॥ 1-206-10(9121)
वैशम्पायन उवाच। 1-206-11x(1148)
जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम्।
दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः॥ 1-206-11(9122)
दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम्।
संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्॥ 1-206-12(9123)
तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम्।
संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः॥ 1-206-13(9124)
काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम्।
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम्॥ 1-206-14(9125)
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः।
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः॥ 1-206-15(9126)
अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः।
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा॥ 1-206-16(9127)
`जनमेजय उवाच। 1-206-17x(1149)
सताऽपि शक्तेन च केशवेन
सज्यं धनुस्तन्न कृतं किमर्थम्।
विद्धं च लक्ष्यं न च कस्य हेतो-
राचक्ष्व तन्मे द्विपदां वरिष्ठ॥ 1-206-17(9128)
वैशम्पायन उवाच। 1-206-18x(1150)
शक्तेन कृष्णेन च कार्मुकं त-
न्नारोपितं ज्ञातुकामेन पार्थान्।
परिश्रवादेव बभूव लोके
जीवन्ति पार्था इति निश्चयोऽस्य॥ 1-206-18(9129)
अन्यानशक्तान्नृपतीन्समीक्ष्य
स्वयंवरे कार्मुकेणोत्तमेन।
धनञ्जयस्तद्धनुरेकवीरः
सज्यं करोतीत्यभिवीक्ष्य कृष्णः॥ 1-206-19(9130)
इति स्वयं वासुदेवो विचिन्त्य
पार्थान्विवित्सन्विविधैरुपायैः।
न तद्धनुः सज्यमियेप कर्तुं
बभूवुरस्येष्टतमा हि पार्थाः॥' 1-206-20(9131)
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे
ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्।
तमेवार्थं ध्यायमाना मनोभिः
सर्वे च ते तस्थुरदीनसत्वाः॥ 1-206-21(9132)
वृष्णिप्रवीरस्तु कुरुप्रवीरा-
नाशंसमानः सहरौहिणेयः।
जगाम तां भार्गवकर्मशालां
यत्रासते ते पुरुषप्रवीराः॥ 1-206-22(9133)
तत्रोपविष्टं पृथुदीर्घबाहुं
ददर्श कृष्णः सहरौहिणेयः।
अजातशत्रुं परिवार्य तांश्चा-
प्युपोपविष्टाञ्ज्वलनप्रकाशान्॥ 1-206-23(9134)
ततोऽब्रवीद्वासुदेवोऽभिगम्य
कुन्तीसुतं धर्मभृतां वरिष्ठम्।
कृष्णोऽहमस्मीति निपीड्य पादौ
युधिष्ठिरस्याजमीढस्य राज्ञः॥ 1-206-24(9135)
तथैव तस्याप्यनु रौहिणेय-
स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन।
पितृष्वसुश्चापि यदुप्रवीरा-
वगृह्णतां भारतमुख्य पादौ॥ 1-206-25(9136)
अजातशत्रुश्च कुरुप्रवीरः
पप्रच्छ कृष्णं कुशलं विलोक्य।
कथं वयं वासुदेव त्वयेह
गूढा वसन्तो विदिताश्च सर्वे॥ 1-206-26(9137)
तमब्रवीद्वासुदेवः प्रहस्य
गूढोऽप्यग्निर्ज्ञायत एव राजन्।
तं विक्रमं पाण्डवेयानतीत्य
कोऽन्यः कर्ता विद्यते मानुषेषु॥ 1-206-27(9138)
दिष्ट्या सर्वे पावकाद्विप्रमुक्ता
यूयं घोरात्पाण्डवाः शत्रुसाहाः।
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः
सहामात्यो न सकामोऽभविष्यत्॥ 1-206-28(9139)
भद्रं वोऽस्तु निहितं यद्गुहायां
विवर्धध्वं ज्वलना इवैधमानाः।
मा वो विद्युः पार्थिवाः केचिदेव
यास्यावहे शिबिरायैव तावत्।
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः 1-206-29(9140)
1-206-29f"
प्रायाच्छीघ्रं बलदेवेन सार्धम्॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि षडधिकद्विशततमोऽध्यायः॥ 206 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-206-12 दृष्ट्वा ते तत्र तिष्ठन्ती इति ङ. पाठः॥ 1-206-29 यद्भद्रं गुहायां बुद्धौ वो निहितं तद्वोस्तु॥ षडधिकद्विशततमोऽध्यायः॥ 206 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|